व्याकरणसूक्तयः (अकरणीयम्)

<poem> येन स्यात् कर्मणारुढः खट्वामनुशयी नरः । आदितस्तन्न कर्त्तव्यमिच्छता भावमात्मनः ॥ - व्याकरणसिद्धान्तसुधानिधिः २.१.२६;

यः स्वस्य हितम् अपेक्षते तेन तादृशं कार्यं नैव कर्तव्यं यस्मात् अग्रे मञ्चे उपविश्य पश्चात्तापः करणीयः भवेत् ।