व्याकरणसूक्तयः (अज्ञानं न शरणम्)

<poem> अथ योऽवाग्योगवित् । अज्ञानं तस्य शरणम् । नात्यन्तायाज्ञानं शरणं भवितुमर्हति । यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबेत्सोऽपि मन्ये पतितः स्यात् । - महाभाष्यम्, पस्पशा-पृ २

व्याकरणम् अजानन् कश्चन अपशब्दप्रयोगं यदि कुर्यात् तर्हि सः अपशब्दप्रयोगजन्यात् पापात् ग्रस्तः न भविष्यति । यतः तेन सः प्रयोगः अज्ञानेन कृतः न तु उद्देशपूर्वकम् । तस्मात् अज्ञानं तस्य रक्षकं भविष्यति । अज्ञानं रक्षकः भवति इत्येतत् कथनं न युक्तम् । अज्ञानं तं पूर्णतया न रक्षति । कश्चन अज्ञानेन ब्राह्मणहत्यां सुरापानं वा यदि कुर्यात् तर्हि अपि सः पतितः इत्येव यथा परिगण्यते तथैव अज्ञानेन अपशब्दप्रयोगः अपि दोषाय एव । दोषमुक्तः भवेत् इति चेत् तेन व्याकरणम् अवश्यम् अध्येतव्यम् ।