व्याकरणसूक्तयः (अध्ययनस्य देशकालौ)

<poem> देशः खल्वप्याम्नाये नियतः । श्मशाने नाध्येयं चतुष्पथे नाध्येयमिति । कालः खल्वप्याम्नाये नियतः । नामावास्यायां न चतुर्दश्यामिति । - महाभाष्यम् ५.२.१, वार्त्तिकम् -२;

शास्त्रेषु अध्ययनस्य स्थानं नियतं वर्तते । श्मशानेषु चतुष्पथेषु च अध्ययनं न कर्तव्यम् । अध्ययनस्य कालः अपि नियतः अस्ति । अमावास्यायां चतुर्दश्यां च अध्ययनं न कर्तव्यम् ।