व्याकरणसूक्तयः (अध्रुवेण ध्रुवप्राप्तिः)

<poem> य एष मनुष्यः प्रेक्षापूर्वकारी भवति सोऽध्रुवेण निमित्तेन ध्रुवं निमित्तमुपादत्ते । - महाभाष्यम् १.१.२६, वार्त्तिकम्-५;

प्रेक्षापूर्वकारी - प्रेक्षापूर्वं (प्रज्ञापूर्वकं) कार्यं कर्तुं शीलम् अस्य इति प्रेक्षापूर्वकारी । यः प्रज्ञापूर्वकं (विचारपूर्वकं) कार्याणि सम्पादयति सः स्वीयं शाश्वतं लक्ष्यम् अशाश्वतेन अपि निमित्तेन साधयितुम् अर्हति ।