व्याकरणसूक्तयः (अनुकरणम्)

अनुकरणं हि शिष्टस्य साधु भवति । - महाभाष्यम् (ऋलृक्)

शिष्टाचारस्य शिष्टप्रयोगस्य च अनुकरणं साधु भवति ।


अनुचितस्यानुकरणं दोषावहम् सम्पाद्यताम्

<poem> यस्तु खल्वेवमसौ ब्राह्मणं हन्त्येवमसौ सुरां पिबतीति तस्यानुकुर्वन् ब्राह्मणं हन्यात्सुरां वा पिबेत् सोऽपि मन्ये पतितः स्यात् । - महाभाष्यम्, पस्पशा-पृ० २०;

यदि कश्चन ब्राह्मणं हन्यात्, सुरां वा पिबेत्, तर्हि तम् अनुसरण् एषः अपि ब्राह्मणं यदि हन्यात्, सुरां वा पिबेत् तर्हि अयमपि पतितः भविष्यति । अतः अशिष्टस्य अनुकरणं दोषाय भवति ।