व्याकरणसूक्तयः (अनुमानबलीयस्त्वम् )

<poem> भवति वै प्रत्यक्षादप्यनु मानबलीयस्त्वम् । तद्यथा अलातचक्रं प्रत्यक्षं दृश्यतेऽनुमानाच्च गम्यते नैदस्तीति । - महाभाष्यम् ३.२.१२४;

प्रत्यक्षप्रमाणस्य अपेक्षया अनुमानं बलीयान् भवति । यथा अलातचक्रं तन्नाम अग्नियुतं काष्ठदण्डं वर्तुलाकारेण भ्रामयाम चेत् अग्निवृत्तमिव दृश्यते किन्तु वस्तुतः तन्न विद्यते ।