व्याकरणसूक्तयः (अन्तरङ्ग-बहिरङ्गे)

<poem> (असिद्धं बहिरङ्गमन्तरङ्गे) ‘कथम् ? प्रत्यङ्गवर्ती लोको लक्ष्यते । तद्यथा-पुरुषोऽयं प्रातरुत्थाय यान्यस्य प्रति शरीरं कार्याणि तानि तावत्करोति, ततः सुहृदां ततः सम्बन्धिनाम्’ । - महाभाष्यम्- १.१.५७;

अन्तरङ्गकार्यस्य आरम्भः यदा भवति तदा बहिरङ्गकार्यं निरस्तं भवति । लोके अपि एतद् दृश्यते । मनुष्यः प्रातः उत्थाय आदौ शौचदन्तधावनादीनि कार्याणि करोति । ततः घनिष्ठमित्राणां, तदनन्तरं अन्येषां सम्बन्धीनां च कार्यं करोति ।

अल्पापेक्षम् अन्तरङ्गम् । - प्रकीर्णम्

अन्तरङ्गमित्राणि अल्पापेक्षिणः भवन्ति । बहु अपेक्षां यः कुर्यात् तस्य आत्मीयता न्यूना भवति ।