व्याकरणसूक्तयः (अभिवादन- समुदाचारः)

<poem> पूर्ववया ब्राह्मणः प्रत्युत्थेय इति पूर्ववयसोऽप्रत्युत्थाने दोषः उक्तः, प्रत्युत्थाने च गुणः । कथम् ? - ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ इति - महाभाष्यम् ६.१.४, वार्त्तिकम् -५;

वृद्धः ब्राह्मणः समीपं यदा आयाति तदा उत्थाय सः आदरणीयः । एवम् अकरणं दोषाय । एवम् आचरणं गुणाय भवति । कथम् इति चेत् कनीयान् यदा ज्येष्ठम् उपसर्पति तदीयाः प्राणाः उत्क्रामन्ति (उपरि गच्छन्ति) । सः उत्थाय अभिवादयति तदा प्राणाः पूर्वस्थितौ पुनः स्थापिताः भवन्ति । अतः अवश्यं प्रत्युत्थाय अभिवादनीयम् ।