व्याघ्रीव तिष्ठति जरा...

सुभाषितम्

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भः
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ वैराग्यशतकम् ३८




तात्पर्यम्

वार्धक्यं व्याघ्री इव मनुष्यं भाययन्ती अस्ति । रोगाः शत्रवः इव शरीरं घातयन्तः सन्ति । भग्नात् घटात् जलं यथा स्रवति तथा अस्माकम् आयुः परिस्रवन्ती अस्ति । तथापि जनाः अन्यान् अपकुर्वन्ति । वयम् अशाश्वताः इति न अवगच्छन्ति एव इत्येतत् विचित्रमेव ।