व्याधितस्यार्थहीनस्य...

व्याधितस्यार्थहीनस्य देशान्तरगतस्य च ।
नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥ सुभाषितरत्नभाण्डागारम् - सुमित्रप्रशंसा (९२/१०)

प्रायः लोके सर्वेषाम् अपि स्नेहिताः भवन्ति एव । बान्धवाः बहवः स्युः नाम, तथापि मित्राणि सन्ति चेत् एव तस्य नरस्य जीवनं सुखि जीवनम् । यतः यस्य मित्राणि भवन्ति तस्य जीवने सर्वविधसौख्यम् अपि भवति । मनुष्यस्य कष्टसमये मित्रं सान्त्वनवचनैः, अन्येन प्रकारेण वा साहाय्यम् आचरति । तत्रापि रुग्णावस्थायां, दारिद्र्यदशायां, देशान्तरनिवासप्रसङ्गे, दुःखावस्थायां च यदि मित्राणां दर्शनं भवति तर्हि तत् औषधमिव सर्वमपि कष्टं दुःखं च परिहरति ।