शतपत्र- पत्रभेदनन्यायः

पद्मपत्राणां शतम् अपि एकसूचीभेदेन एकदा एव भिन्नं भवति । यतः तत् अतीव कोमलं भवति । यद्यपि एकदा एव पत्रशतस्य अपि भेदः जातः इति भाव्यते तथापि यथार्थतः एकैकस्य पत्रस्य अत्यन्तसूक्ष्मकाले भेदनं भवति खलु । एवं यत्र एक कार्यस्य निष्पत्तौ क्रमे सत्यपि यौगपद्यभ्रमः भवति तत्र अस्य प्रयोगः क्रियते । आदौ प्रथमदलेन सह सूचीसंयोगः, अनन्तरं तस्य अवयवैः सह संयोगः तृतीयक्षणे भेदः चतुर्थक्षणे पूर्वक्षणजातस्य संयोगस्य नाशः इति रीत्या एकविशिष्टक्रमेणा सूचीभेदः जायते । एवमेव असंलक्ष्यक्रमव्यङ्यनामके ध्वनिप्रकारे अपि कश्चन क्रमः वर्तमानः अपि यौगपद्यभ्रमं जनयति । यथा साहित्यदर्पणे विवृतं – १. अत्र व्यङ्यप्रतीतेः विभावादिप्रतीतिकारणकत्वाम् प्रक्रमः अवश्यम् अस्ति किन्तु उत्पलशतपत्रभेदवत् लाघवात् न संलक्ष्यते । २. यत्प्रदीपप्रभाद्युक्तं सूक्ष्मकालोऽस्ति तत्र नः । श्लोकवार्तिके । ३७ तुल्यौ- शतपत्रशतन्यायः शतपत्रशातनन्यायः