सुभाषितम्

शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः ।
बुद्धिप्रारब्धकार्यस्य नास्ति किञ्चन दुष्करम् ॥




तात्पर्यम्

शरीरचिन्तनं परित्यज्य, दक्षतया, निरन्तरं यः कार्यं कुर्यात्, सम्यक् विचिन्त्य च यः कार्यस्य आरम्भं कुर्यात् तेन साधयितुम् अशक्यं न किञ्चित् विद्यते ।

"https://sa.wikiquote.org/w/index.php?title=शरीरनिरपेक्षस्य...&oldid=15009" इत्यस्माद् प्रतिप्राप्तम्