तीक्ष्णदन्तः आखुः (उन्दीरः) कस्यचित् सुप्तस्य मनुष्यस्य पादस्य मृदुतलभागम् अत्यन्तकौशल्येन पृथक्करोति यत् सः मनुष्यः वेदनाम् अपि न जानीयात् । एवं कुशलपूर्वकं कार्यं यः करोति तस्य विषये अस्य प्रवृत्तिः भवति । यथा – राजा प्रजाः अपीडयित्वा ताभ्यः करं संगृहणीयात् इति महाभारते शान्तिपर्वणः टीकायाम् -८८.६.

"https://sa.wikiquote.org/w/index.php?title=शल्यकवानाखुन्यायः&oldid=11174" इत्यस्माद् प्रतिप्राप्तम्