शवस्य उद्वर्तनं नाम निरर्थकं कार्यम् । शवस्य कियान् अपि अलङ्कारः भवति चेदपि तत् सर्वं व्यर्थं खलु । एवं निरर्थकस्य कर्मणः विषये अस्य प्रयोगः भवति । यथा – अरण्यरुदितं कृतं शवशरीरमुद्वर्तितम् ॥ (सुभाषितम्)

"https://sa.wikiquote.org/w/index.php?title=शवोद्वर्तनन्यायः&oldid=11176" इत्यस्माद् प्रतिप्राप्तम्