शस्त्रैर्हतास्तु रिपवो...

सुभाषितम्

शस्त्रैर्हतास्तु रिपवो न हता भवन्ति प्रज्ञाहताश्च नितरां सुहता भवन्ति ।
शस्त्रं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कलां च विभवं च यशश्च हन्ति ॥




तात्पर्यम्

शस्त्रेण प्रहृताः चेत् शत्रवः वस्तुतः हताः न भवन्ति । बुद्धिबलेन जिताः चेदेव ते वस्तुतः अपजयं प्राप्नुवन्ति । यतः शस्त्रं शरीरमात्रं विनाशयति । किन्तु बुद्धिबलं यदि नश्येत् तर्हि तदीयं धनं, कीर्तिः, प्रतिभा च विनश्यति ।