कस्मैचिद् चन्द्रः दर्शनीयः चेत् किं क्रियते समीपवर्तिनः वृक्षस्य शाखासु निलीनस्य चन्द्रस्य दर्शनं कार्यते खलु । यथा “ तत्र शाखाग्रे चन्द्रः दृश्यते “ इत्यादि । तथा कस्यापि उपलक्षणस्य साहाय्येन कस्यापि स्पष्टीकरणं क्रियते चेत् अस्य न्यायस्य प्रयोगः भवति । यथा – <poem> तरुशाखाग्रदृष्ट्यैव सोमं यद्वत् प्रदर्शयेत् । निष्कोशं कोशदृष्ट्यैव प्रचीति ब्रह्म दृश्यते ॥ तैत्तिरीयभाष्यवार्तिके २-१-२३२ (सा. २४९)

"https://sa.wikiquote.org/w/index.php?title=शाखाचन्द्रन्यायः&oldid=11182" इत्यस्माद् प्रतिप्राप्तम्