शास्त्राण्यधीत्यापि...

सुभाषितम्

शास्त्राण्यधीत्यापि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषस्स विद्वान् ।
सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥

śāstrāṇyadhītyāpi bhavanti mūrkhāḥ yastu kriyāvān puruṣassa vidvān ।
sucintitaṃ cauṣadhamāturāṇāṃ na nāmamātreṇa karotyarogam ॥

पदच्छेदः

शास्त्राणि, अधीत्य, अपि, भवन्ति, मूर्खाः, यः, तु, क्रियावान्, पुरुषः, सः, विद्वान्, सुचिन्तितं, च, औषधम्, आतुराणां, न, नाममात्रेण, करोति, अरोगम् ॥


तात्पर्यम्

शास्त्राणि अधीतवन्तः जनाः अपि कदाचित् मूर्खाः स्युः । स्वीयं ज्ञानं आचरणे यः आनयेत् सः एव वस्तुतः पण्डितः । समीचीनतया विचिन्त्य उक्तस्य औषधस्य नामश्रवणमात्रेण कोपि रुग्णः स्वस्थः न भविष्यति ।


आङ्ग्लार्थः

Even after studying the Shastras people remain ignorant. only those persons are learned who put knowledge into practice. Just as a patient is cured only by taking the prescribed medicine and not merely by mentioning it's name.