दीपशिखायाः उपरि कर्पूरः स्थापितः चेत् दीपाशिखा कर्पूरः च ज्वलतः । अन्ततः द्वयोः अपि निर्वापणं भवति । एवं मूलवस्तु तस्य आधारः च यत्र नश्यतः तत्र बोधार्थम् अस्य न्यायस्य प्रयोगः क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=शिखाकर्पूरन्यायः&oldid=11184" इत्यस्माद् प्रतिप्राप्तम्