माघ

(शिशुपालवध इत्यस्मात् पुनर्निर्दिष्टम्)

संस्कृते प्रसिद्धेषु पञ्चसु महाकाव्येषु शिशुपालवधमप्येकम् । महाकविर्माघः अस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते ।

उपमा कालिदासस्य भारवेरर्थगौरवं।

दन्डिन: पदलालित्यं माघे सन्ति त्रयो गुणः।

शिशुपालवध सम्पाद्यताम्

  • भूरिभिर्भारिभिर्भीराभूभारैरभिरेभिरे ।

भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥

  • दाददो दुद्ददुद्दादी दाददो दूददीददोः ।

दुद्दादं दददे दुद्दे दादाददददोऽददः ॥

  • वारणागगभीरा सा साराभीगगणारवा ।

कारितारिवधा सेना नासेधा वारितारिका ॥

  • तं श्रिया घनयानस्तरुचा सारतया तया ।

यातया तरसा चारुस्तनयानघया श्रितं ॥

  • सकारनानारकास-

कायसाददसायका ।
रसाहवा वाहसार-
नादवाददवादना ॥

  • सा सेना गमनारम्भे

रसेनासीदनारता ।
तारनादजनामत्त
धीरनागमनामया ॥

  • सदैव संपन्नवपू रणेषु

स दैवसंपन्नवपूरणेषु ।
महो दधे 'स्तारि महानितान्तं
महोदधेस्तारिमहा नितान्तम् ॥

  • सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो

लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे-
रेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥

बाह्यसंबन्धनानि सम्पाद्यताम्

विकिपीडियायाम् एतत्सम्बद्धः लेखः :


"https://sa.wikiquote.org/w/index.php?title=माघ&oldid=2360" इत्यस्माद् प्रतिप्राप्तम्