शीर्षे सर्पो देशान्तरे वैद्यइतिन्यायः

शीर्षे सर्पो देशान्त रेच औषधम् अस्ति । सर्पः कदापि दशेत् तर्हि विषोपशमनाय औषधं कथं प्राप्तव्यम् ? एवं सङ्कटे समापतिते उपायाभावः इति बोधयितुम् अस्य प्रयोगः क्रियते । यथा- <poem>

उपरि धनं धनरहितः दूरे दयिता द्वयमेतदापतितम् ।

हिमवति दिव्यौषधयः शीर्षे सर्पः समाविष्टः ॥ लौकिकन्यायसाहस्रीतः (सा. ६८२)