सुन्दर्याः शरीरं दृष्द्वा शुष्कस्तनी स्त्री किं चिन्तयेत् – “किं स्तनाभ्यां शरीरस्य सौन्दर्य वर्धेत ? तयोः कारणेन शरीरम् असमं विरुपं भवति” । इति । एतावदेव सुन्दरशरीरस्य उपरि वर्तमानां कञ्चुकीं दृष्द्वा असूयया सा तामपि निन्देत् । एवं स्वकीय – न्यूनताकारणेन अन्यस्य वृद्धिं निन्दताम् उल्लेखः अनेन क्रियते ।। स्वयम् असूयाग्रस्तः स्वन्यूनतां समर्थयति अन्येषां गुणांना च निन्दां करोति इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=शुष्कस्तनीन्यायः&oldid=11204" इत्यस्माद् प्रतिप्राप्तम्