कयाचित् रीत्या अविधिपूर्वकं कृतः यागः इति अर्थः । यज्ञविधौ प्रावीण्यम् अप्राप्य अपि यज्ञम् अनुष्ठातुम् इच्छया कोऽपि समर्थेषु साधनेषु असत्सु उपलभ्यमानानाम् असमर्थानाम् उपकरणानाम् एव आधारेण होमं निष्पादयति चेत् शुष्केष्टिः एव भवति । एवम् असमर्थेन कृतं निष्फलं कार्यं बोधयति अयं न्यायः । तुल्यः भूमिरधिकान्यायः

"https://sa.wikiquote.org/w/index.php?title=शुष्केष्टिन्यायः&oldid=11206" इत्यस्माद् प्रतिप्राप्तम्