शूरा वयम्...


शूरा वयं धीरा वयं वीरा वयं सुतराम्
गुणशालिनो बलशालिनो जयगामिनो नितराम् ॥

दृढमानसा गतलालसा: प्रियसाहसा: सततम्
जनसेवका अतिभावुका: शुभचिन्तका नियतम् ॥

धनकामना सुखवासना न च वञ्चना हृदये
ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये ॥

गतभीतयो धृतनीतयो दृढशक्तयो निखिला:
यामो वयं समराङ्गणं विजयार्थिनो बाला: ॥

जगदीश हे परमेश हे सकलेश हे भगवन्
जयमङ्गलं परमोज्ज्वलं नो देहि परमात्मन् ॥




"https://sa.wikiquote.org/w/index.php?title=शूरा_वयम्...&oldid=15434" इत्यस्माद् प्रतिप्राप्तम्