शूर्पः धान्यस्य स्वच्छतासंपादनाय उपयुज्यते । स च धान्ये वर्तमानान् अनावश्यकान् शिलाकणान् दूरी करोति आवश्यकं च धान्यं समीकरोति । एवं मेधावी दोषान् दूरीकृत्य गुणान् एव स्वीकारोति इति भावः । एवमेव शिष्यः गुरुणां गुणान् आददीत न दोषान् इति तात्पर्यम् । (सा. ३२१)

"https://sa.wikiquote.org/w/index.php?title=शूर्पन्यायः&oldid=11210" इत्यस्माद् प्रतिप्राप्तम्