स्वर्गलोकस्य सुखम् इदम्

शोकातिगो मोदते स्वर्गलोके । - काठकोपनिषत् १-१-१८

अग्निहोत्री मरणानन्तरं स्वर्गलोके शोकातिगो मोदते ॥

मानवानां वासस्थानभूतो लोको मर्त्यलोकः अथवा भूलोकः ।
दुःखलोकः इति च नामान्तरम् अस्य । अत्र लोके दुःखान्येव
अधिकानि भवन्ति ॥

स्वर्गलोकस्तु सुखस्थानम् । देवलोकः इति च नामान्तरमस्य ।
न हि अयं स्वर्गो लोकः तावता सुलभेन लभ्यः । अस्मिन्
मनुष्यलोके द्विजत्वेन जाताः, तत्रापि शुद्धब्राह्मणाः सन्तः,
वेदाध्ययनसम्पन्नाः अग्निहोत्रादीनि शास्त्रीयकर्माणि यथाविधि
कुर्वन्त एव मरणानन्तरं स्वर्गलोकं प्राप्नुयुः । पुण्यलोकोऽसौ
भवति । स्वर्गलोके अप्सरस्त्रियः, कल्पवृक्षः, कामधेनुः,
चिन्तामणिश्च इत्येते पदार्था भवन्ति । अत्र मनुष्यलोके यथा
जरादुःखानि भवन्ति न तथा तत्र दुःखसम्भवः । शरीरजाः
रोगाश्च तत्र स्वर्गे न भवन्ति । स्वर्गलोके सकलभोगसम्पदः
भवन्ति । तत्र देवानां सङ्कल्पसिद्धिर्भवति । अपि तु अयं
स्वर्गलोकोऽपि अनित्य एव । नायं मोक्षः ॥

"https://sa.wikiquote.org/w/index.php?title=शोकातिगो_मोदते...&oldid=16322" इत्यस्माद् प्रतिप्राप्तम्