भारतीयसंप्रदायानुसारं मृतशरीरस्य अग्निसंस्कारः क्रियते खलु । श्मशाने श्रीरे दह्यमाने तत्र स्थितानां मनसि का वा भावना उत्पद्येत ? ते चित्तयेयुः – कियत् इदं क्षणभङ्गुरं जन्म ! सर्वेषाम् अपि अन्तिमं गम्यं श्मशानम् एव खलु “इति । एतादृश्यः भावनाः सर्वेषां मनस्सु भवन्ति। परन्तु श्मशानं त्यक्त्वा गृहं यदा गच्छन्ति तदा सर्वं वैराग्यं नश्यति पुनश्च लोकभावना जागर्ति। एवं काश्चन भावनाः अस्थिररुपेण जायन्ते नश्यन्ति च इति भावः। यथा – <poem> १. प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः।

       संन्यासिनोऽपि दृश्यन्ते देवसन्दूषिताशयाः ॥

२. श्मशानान्ते पुराणान्ते मैथुनान्ते च या मतिः ।

       सा मतिः सर्वदा काले नरो तारायणो भवेत्॥ हितोपदेशे मित्रलाभे ६८ सा- १६४
"https://sa.wikiquote.org/w/index.php?title=श्मशनवैराग्यन्यायः&oldid=18059" इत्यस्माद् प्रतिप्राप्तम्