श्रद्धया विन्दते वसु ॥
श्रद्धया विन्दते वसु ॥ (ऋग्वेदः १०-१५१-४)
सम्पाद्यताम्श्रद्धया सम्पत्तिः प्राप्यते ।
- रूढौ श्रद्धा नाम स्वीकृतं कार्यं पूर्णमनसा निरन्तरं करणम् इति । धनसम्पादनस्य उद्देशेन एवं यदि कार्यं क्रियेत तर्हि श्रद्धया सम्पत्तिः सम्पादिता इति वक्तुं शक्येत । किन्तु, श्रत् + धा = श्रद्धा । श्रत् नाम सत्यम् इति । तस्य धारणमेव श्रद्धा इति । सत्यमार्गेण एव सम्पत्तिः सम्पादनीया इत्येतत् अस्याः उक्तेः तात्पर्यम् । सम्पत्तेः सम्पादनं यावत् प्रमुखं तावदेव प्रमुखं भवति तस्याः सम्पादनमार्गः अपि । दुर्मार्गेण अर्जिता सम्पत्तिः दुःखरोगादीनां हेतुः भवति । तच्च धनं वैद्याय, न्यायवादिने, आरक्षकेभ्यः दातव्यं भवति । अस्माकम् अभिवृद्धै न भवति । तादृश्या सम्पत्त्या किं प्रयोजनम् ?
- ’वसु’ इत्यस्य अर्थः ऐश्वर्यमात्रं न । अस्य धातुः ’वस निवासे’ इति । यया दृढता, सुरक्षा प्राप्येत तादृशी सम्पत्तिः इत्यर्थः । सम्पत्तेः सम्पादनेन मनसः समाधानं भवेत्, शान्तिः भवेत् । सम्पादितस्य रक्षणं सुलभं स्यात् । यावदपेक्षितं तावदेव यदि भवेत् तदा एव इदं साध्यम् । न्याय्येन सत्येन च मार्गेण तावदेव प्राप्यते !!