श्रद्धाभक्तिध्यानयोगाद् अवेहि...

श्रद्धा-भक्ति-ध्यानयोगाद् अवेहि । - कैवल्योपनिषत् १-२

तत्त्वविजिज्ञासुः साधकः श्रद्धया, भक्त्या, ध्यानयोगेन च परं ब्रह्म जानीयात् ।

आत्मानं सम्यक् अवगन्तुम् अत्र मन्त्रे साधकानां श्रद्धा, भक्तिः, ध्यानयोगः इति त्रीणि साधनानि
उपदिष्टानि । एतेषां साधनानाम् अर्थं पश्याम ॥

श्रद्धा नाम गुरुशास्त्रवाक्येषु विश्वासः । सद्गुरूणामुपदेशे जिज्ञासोः पूर्णविश्वासो भवेत्, वेदान्तशास्त्रसन्देशेषु
अस्माकम् आदरः, प्रीतिः, विश्वासश्च भवेयुः ॥

भक्तिर्नाम परमात्मनि सद्गुरौ च गौरवाधिक्यम् । सद्गुरौ भक्तिरहितस्य आत्मज्ञानं नैव उदेति । गुरुसेवा
गुरुभक्तिश्च खलु ज्ञानप्राप्तेः प्रधानं साधनम् ॥

ध्यानयोगो नाम आत्मनः अनुसन्धानमेव । चित्तशुद्ध्या हि आत्मनः ज्ञानं जायते, न तु केवलेन
शुष्कपाण्डित्येन ॥

एवं त्रिभिस्साधनैः साधकः परं ब्रह्म विज्ञाय कृतार्थो भवति ॥