श्रीमाता श्री अरविन्दस्य शिष्या । सा भारतस्य पुदुचर्याम् अरविन्दस्य आश्रमे तिष्ठन्ती बहूनां जनानाम् आध्यात्मिकमार्गदर्शनं कृतवती ।

अमृतवचनानि सम्पाद्यताम्

  • विश्वस्य हिताय भारतस्य रक्षणं करणीयम् अस्ति । यतः भारतम् एकमेव विश्वे शान्तिं नवव्यवस्थां च उपस्थापयितुम् अर्हति । भारतस्य भविष्यं सुस्पष्टम् अस्ति । भारतं जगतः गुरुः अस्ति । विश्वस्य भाविसङ्घटनं भारतम् अवलम्बते । भारतं जीवन् आत्मा इव । विश्वे आध्यात्मिकज्ञानस्य मूर्तिमत्त्वं कल्पयत् अस्ति भारतम् ।


  • सङ्कटे उपस्थिते सत्येव मनुष्यः स्वस्वभावगतां वास्तविकीं साहसप्रवृत्तिं प्रकटयति । कष्टपरम्परायां प्राप्तायां सः हार्दां निष्ठां प्रकाशयितुम् अर्हति ।


  • एतस्य देशस्य नदी-नद-पर्वत-वन-नगरमात्राणि भारतं न । अत्रत्यानां कोटिशः जनानां नाम अपि भारतम् इति न । यदि भारतवासिनः एतं देशं परित्यज्य अन्यत्र कुत्रापि वसेयुः तर्हि सः प्रदेशः भारतं न भविष्यति । भारतमाता शिवविष्ण्वादिवदेव काचित् देवता । एषः देशः तस्याः शरीरम् इति वक्तुं शक्यम् ।
"https://sa.wikiquote.org/w/index.php?title=श्रीमाता&oldid=3768" इत्यस्माद् प्रतिप्राप्तम्