श्रीराघवयादवीयम् (श्लोकः ४)

रामधाम समानेन
मागोरोधनमासताम् ।
नामाहामक्षररसं
ताराभास्तु न वेदया ॥

पदविभागः सम्पाद्यताम्

रामधाम, समानेनम्
आगोरोधनम्, आस ताम् ।
नामहाम्, अक्षररसम्,
ताराभाः, तु, न वेद, या ॥

प्रतिपदार्थः सम्पाद्यताम्

या - या अयोध्यानगरी, ताराभाः - सूर्यादीन् नक्षत्राणि च, न वेद - न ज्ञातम्, नामहाम् - नित्यमहोत्सवयुक्ताम्
(अमहः - अनुत्सवम्, न अमहः - अनुत्सवरहितम् तन्नाम उत्सवयुतम् इति भवति) । ताम् - ताम् अयोध्याम्,
अक्षररसम् - क्षरं नाम नाशः अविनाशि-आनन्दयुतम्, आगोरोधनम् - आगः - पापानि, रोधनम् - नाशकम्,
समानेनम् - सूर्यसमानम्, रामधाम - श्रीरामाख्यं दिव्यतेजः, आस - परिगृहीतम् ।

तात्पर्यम् सम्पाद्यताम्

गगनस्पर्शिभिः वृक्षैः युक्तानि उपवनानि तस्यां नगर्याम् आसन् । तत्र वसतां निवासभूतानि महाभवनानि अपि
आकाशस्पर्शिनः आसन् । तस्मात् जनाः सूर्यं नक्षत्राणि वा द्रष्टुं न शक्नुवन्ति स्म । अतः कविः अतिशयोक्त्या
वदति - अयोध्यया नक्षत्राणि एव न जातानि इति । सा नगरी नित्योत्सवयुक्ता आसीत् । नित्यानन्दयुतः,
अस्माकं सर्वपापनिवारकः, सूर्यसमतेजः श्रीरामः अयोध्यायाः स्वामी आसीत् ।

प्रतिलोमक्रमेण श्लोकः सम्पाद्यताम्

यादवेनस्तु भाराता
संररक्ष महामनाः ।
तां समानधरो गोमान्
अनेमा समधामराः ॥

पदविभागः सम्पाद्यताम्

यादवेनः, तु, भाराता,
संररक्ष महामनाः ।
ताम्, सः, मानधरः, गोमान्,
अनेमासमधामराः ॥

प्रतिपदार्थः सम्पाद्यताम्

नेमः - अवधिः इति निर्दिशति 'विश्व'कोशः । अतः अनेमः - कालातीतम् असमम् असादृश्यम्, धामराः - तेजसा
ऐश्वर्येण युक्तम्, गोमान् - गोसम्पदा युक्तः गोपालः, मानधरः - महामनाः तन्नाम परमोदारः, भा - कान्तिं तेजः,
राता - दाता (रा-दाने इत्येषः धातुः), सः यादवेनः - सः प्रसिद्धः यादवस्वामी श्रीकृष्णः, ताम् - तां द्वारकां,
सं ररक्ष - रक्षितवान् (रक्ष पालने धातुः सम् उपसर्गः लिट् रूपम्) ।

तात्पर्यम् सम्पाद्यताम्

(श्रीकृष्णस्य वर्णनम्) द्वारकानगरी श्रीकृष्णेन पाल्यते स्म । सः महानुभावः कालातीतेन असादृश्येन तेजसा ऐश्वर्येण
च विराजते स्म । सः गोसम्पदाम् अधिपतिः सन् गोपालः आसीत् । परमोदारः सन् महामनाः इति प्रसिद्धः आसीत् ।
सकलविधकान्तेः मूलः सन् तस्याः दाता आसीत् । सः यादवानां स्वामी सन् तां नगरीं पालयति स्म ।