श्रीराघवयादवीयम् (श्लोकः ५)

यन् गाधेयो योगीरागी वैताने सौम्ये सौख्येसौ ।
तं ख्यातं शीतं स्फीतं भीमानामाश्रीहाता त्रातम् ॥

पदविभागः सम्पाद्यताम्

यन्, गाधेयो, योगीरागीवैताने, सौम्ये, सौख्येसौ । तं, ख्यातं, शीतं, स्फीतम्, भीमान्, आम, अश्रीहाता, त्रातम् ॥

प्रतिपदार्थः सम्पाद्यताम्

सौम्ये - समीचीने, वैताने सौख्ये - यज्ञसम्बन्धे सुखे, रागी - आशायुक्तः, अश्रीहाता - श्री - वेदाः, अश्री - वेदविरोधिनः,
हाता - वर्जयिता, भीमान् - राक्षसैः यज्ञस्य विघ्नः क्रियते इति भीतान्, गाधेयः - योगी विश्वामित्रमुनिः, स्फीतम् - अभिवृद्धम्,
शीतम् - सौम्यम्, ख्यातम् - कीर्तिवन्तम्, तम् - श्रीरामचन्द्रम्, यन् (इण् गतौ - शतृ) - प्राप्तवान् सन्, त्रातम् - यज्ञरक्षणम्,
आम(आम गत्यादिषु - लिट्) - प्राप्तवान् ।

तात्पर्यम् सम्पाद्यताम्

सुन्दरं यज्ञं सुसम्पन्नं स्यात् इत्येषः अभिलाषः आसीत् विश्वामित्रमुनेः । वेदविरोधिनः जनान् मुनिः परित्यक्तवान् आसीत् । राक्षसाः तस्य यज्ञस्य विघ्नम् आचरन्ति स्म । तस्मात् भीतः मुनिः अभिवृद्धं, शान्तं, कीर्तिमन्तं श्रीरामचन्द्रम् उपसर्प्य तत् प्राप्तवान् ।

प्रतिलोमक्रमेण श्लोकः सम्पाद्यताम्

तं त्राताहाश्रीमानामाभीतं स्फीत्तं शीतं ख्यातं । सौख्ये सौम्येसौ नेता वै गीरागीयो योधेगायन् ॥ ५॥

तं त्राताहा श्रीमानामाभीतं स्फीतं शीतं ख्यातम् ।
सौख्ये सौम्येसौ नेता वै गीरागीयो योधेगायन् ॥

पदविभागः सम्पाद्यताम्

तम्, त्राता, हा, श्रीमान्, आम, अभीतम्, स्फीतम्, शीतम्, ख्यातम् । सौख्ये, सौम्ये, असौ, नेता वै गीरागी, यः, योधे, गायन् ॥

प्रतिपदार्थः सम्पाद्यताम्

सौम्ये - सौम्येषु (उत्तमेषु) विप्रेषु (जात्येकवचनम्), नेता - तेषां नायकः 'ब्राह्मणोत्तमः' इति तात्पर्यम्, योधे - योधेषु,
अभीतम् - भीतिरहितम्, श्रीमान् - ब्रह्मवर्चसा युक्तम्, त्राता - रक्षकः, यः - यः मुनिः, गीरागी - वाचि
गान्धारादिस्वरयुक्तः, असौ - एषः नारदः, गायन् - गीतं गायन्, शीतम् - दयया शीतलयुक्तम्, ख्यातम् - प्रसिद्धम्,
सौख्ये स्फीतम् - जगतः सुखाय अभिवृद्धम्, तम् - तं कृष्णम्, आम - प्राप्तवान् । हा - नारदस्य आगमनं सत्यभामायाः
कोपस्य कारणं जातम् इति खेदसूचकं पदम् पादपूरणाय उपयुक्तम् ।

तात्पर्यम् सम्पाद्यताम्

ब्राह्मणेषु उत्तमः, योधेषु धैर्यशाली, ब्रह्मवर्चस्वी नारदमुनिः श्रीकृष्णस्य समीपम् आगतः । नारदः श्रीकृष्णस्य समीपं
रागयुक्तानि गीतानि गायन् आगतः । श्रीकृष्णः अभिवृद्धै दयाशीतलः आसीत् तन्नाम दयया परमसौम्यः आसीत् इति भावः ।