श्रीराघवयादवीयम् (श्लोकः ६)

मारमं सुकुमाराभं
रसाजाप नृताश्रितम् ।
काविरामदलापा गोसमा
अवामतरानते ॥

पदविभागः सम्पाद्यताम्

मारमं, सुकुमाराभम्
रसाजा, आप, नृताश्रितम्,
काविरामदलापा
गोसमा, अवामतरा, नते

प्रतिपदार्थः सम्पाद्यताम्

काविरामदलापा (क - सुखम्, अविराम - विच्छेदराहित्यम्, द - दानम्, अदलापा - सूक्तियुता - निरन्तरं सुखं यच्छति इति
सूक्तियुता, गोसमा - भूमेः समा, नते - नमस्कारं कुर्वद्भ्यः, अवामतरा - कुटिलरहिता, रसाजा - रसा-भूमौ जा-जाता सीता,
सुकुमाराभम् - कोमलप्रभायुक्तम्, नृताम् - मनुष्यत्वम्, आश्रितम् - आश्रयं प्राप्तवन्तम्, मारमम् - लक्ष्मीकान्तं श्रीरामम्,
आप - प्राप्तवती ।

तात्पर्यम् सम्पाद्यताम्

अस्मिन् श्लोके कविः वैदेहीरघुवीरयोः विवाहं वर्णयति ।
सीतादेवी निरन्तरसुखस्य तन्नाम मोक्षसुखस्य दात्री इति श्रीसूक्त्यादिषु वर्ण्यते । सा भूमातुः समाना । अतः एव सा भक्तानां पापानि
क्षममाणा कदापि कुटिला न भविष्यति । सा भूमातुः पुत्री । सा वैदेही कोमलप्रभायुक्तं, मनुष्यावतारं लक्ष्मीकान्तं श्रीरामचन्द्रं प्राप्तवती ।

प्रतिलोमक्रमेण श्लोकः सम्पाद्यताम्

तेनरातमवामास
गोपालादमराविका ।
'तं श्रितानृपजासारभं
रामाकुसुमं रमा ॥

पदविभागः सम्पाद्यताम्

तेन, रातम्, अवामा, आस
गोपालात्, अमरा, विका,
तं, श्रितानृपजा, सारभम्,
रामा, कुसुमम्, रमा ॥

प्रतिपदार्थः सम्पाद्यताम्

रमा - लक्ष्मीदेवी, नृपजासती - राज्ञः पुत्री सती, तम् - श्रीकृष्णम्, श्रिता - प्राप्तवती । अमर - देवतानाम्,
अविका - रक्षिका (अव रक्षणे - ण्वुल्), अवामा - कौटिल्यरहिता,

तात्पर्यम् सम्पाद्यताम्