श्रुङ्गग्राहिकान्यायः

१. गवां समूहे कश्चन मम गौः का इति गोपालं पृच्छति चेत् सः एकस्याः शृङ्गे गृहीत्वा इयं तव इति दर्शयति । २. गोः शृङ्गे गृहीत्वा तस्याः नियन्त्रणं कर्तुं शक्यते । एवं मुख्यांशस्य ग्रहणेन अपरे अंशाः अपि गृहीताः भवन्ति इति भावः । यथा – <poem> शृङ्गग्राहिकया श्रुत्या ब्रह्मताऽपादिता स्फुटम् ।

यथा गोमण्डलस्यां गां शृङ्गं गृहीत्वा विशेषतो दर्शयति एषा बहुक्षीरा इति ।

बृहदारण्यकशाङ्करभाष्यस्य आनन्दगिरिटीका १-४-८६६

३. न तावत् समवायेन भेदसंबन्धगौरवात् । शब्दान्तं समयोऽप्येवं शृङ्गग्राहिकया लघुः ॥ शाण्डिल्यसूत्रटीकायां ८७ ४. यथा गवादयो विषयाः साक्षात् शृङ्गग्राहिकया प्रतिपाद्यन्ते प्रतीयन्ते च, नैवं बह्य । शाङ्करभाष्यभामत्याम् । ३-२-२२