यावत्पर्यन्तं मकरः जले भवति तावत्पर्यन्तं महागजम् अपि आकृष्य जले नेतुं श्क्नोति । परन्तु यदा सः जलात् बहिः आगच्छति तदा शुनकः अपि तस्य उपरि आक्रमणं कर्तुं शक्नोति । एवं स्थनविशेषात् मनुष्यस्य बलं भवति इति भावः । यथा – <poem> नक्रः स्वस्थनमासाद्य गजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानात् शुनाऽपि परिभूयते ॥ पञ्चतन्त्रे ३-४४

"https://sa.wikiquote.org/w/index.php?title=श्वानमकरन्यायः&oldid=11235" इत्यस्माद् प्रतिप्राप्तम्