संयुक्तमेतत् क्षरमक्षरं...

संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः । - श्वेताश्वतरोपनिषत् १-८

परस्परसंयुक्तं, क्षराक्षरात्मकं व्यक्ताव्यक्तात्मकम् इदं विश्वम् ईशः भरते, बिभर्ति ।

इदं जगत् परस्परं संयुक्तं खलु ? मानवाः अन्योन्यं प्रीत्या संयुक्ताश्चेत् तदेव खलु
जगत् नाम ? देवतानां मानवानां च परस्परसम्बन्धः, जीवानाम् ईश्वराणां च
अन्योन्यसम्बन्धो विद्यते । क्षरम् अक्षरम् इति इदं जगत् द्वेधा विभक्तम् । क्षरं
नाम नश्वरम्, अनित्यम् व्याकृतं जगत्; अक्षरं नाम नाशरहितम्, नित्यम्,
अव्याकृतं जगत् । व्यक्तं नाम प्रमाणगोचरं नामरूपयुक्तं स्थूलं जगत्; अव्यक्तं
नाम प्रमाणागोचरं जगतो मूलभूतं बीजम् ॥

एतादृशप्रपञ्चस्य धर्ता एव परमात्मा । अयमेव ईश्वरः इत्यपि कथ्यते ।
समस्तस्यापि विश्वस्य सारः परमात्मा । इदं जगत् ईशादेव जनित्वा, तस्मिन्नेव
स्थित्वा तत्रैव लीयते । आत्मा तु क्षरात् अक्षराच्च विलक्षणः । ईश्वराभावे
विश्वाभावः । सर्वशक्तः अयं परमात्मा एव सर्वेषामप्यस्माकं स्वरूपभूतोऽस्ति ॥