संस्कृतेन पाठनम्...


संस्कृतेन पाठनं संस्कृताय जीवनम् ।
संस्कृतेन पाठनं संस्कृताय अर्पणम् ॥

एकैकपदमपि निक्षिपाम तत्पथे
प्रत्यूहकण्टकम् उत्खनाम तत्पथे
लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे ॥

चिन्तितं व्रतमिदम् आचराम जीवने
स्वीकृतं व्रतमिदं न त्यजाम जीवने
परजनैरपि व्रतं कारयाम जीवने ॥
  
संस्कृतेन चिन्तनं मानसोल्लासनम्
संस्कृतेन लेखनं सर्वकार्यसाधनम्
संस्कृतेन भाषणं भरतवर्षभूषणम् ॥


जि. महाबलेश्वरभट्टः


"https://sa.wikiquote.org/w/index.php?title=संस्कृतेन_पाठनम्...&oldid=15414" इत्यस्माद् प्रतिप्राप्तम्