सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं च अनिलयनं च । विज्ञानं चाविज्ञानं च ।
सत्यं चानृतं च सत्यम् अभवत् ॥ - तैत्तिरीयोपनिषत् २-६-७

परमात्मा स्वयमेव सत् असच्च अभवत् । निरुक्तम् अनिरुक्तम्, निलयनम् अनिलयनम्, विज्ञानम् अविज्ञानम्,
सत्यम् अनृतं च स एव । तथा स एव सत्यं च अभवत् ॥

एकमेवाद्वितीयः चिन्मात्रस्वरूपः स एव परमात्मा इमं प्रपञ्चं सृष्ट्वा अनन्तरं स्वयमेव इदं जगत् प्रविष्टवान् ।
कोऽयं प्रपञ्चो नाम ? इति चेत्, अस्य प्रपञ्चस्य प्रपञ्चं स्वयमेव करोति मन्त्रः । सत् इति मूर्तम्, व्याकृतम् इत्येतत् ।
त्यत् इति अमूर्तम्, अव्याकृतम् । निरुक्तम् शब्दैः अभिव्यङ्ग्यम् । अनिरुक्तम् शब्दैः वर्णयितुम् अशक्यम् ।
निलयनम् आश्रयभूतम् । अनिलयनम् अनाश्रयभूतम् । विज्ञानं चेतनम् । अविज्ञानम् अचेतनम् । सत्यं व्यवहारगोचरम् ।
अनृतम् मिथ्याभूतम् । इदं सर्वमपि सत्यं ब्रह्मैव । एवं ज्ञाते सति अब्रह्मभूतं न किञ्चित् विद्यते, सर्वमपि ब्रह्मैव ।
इदंरहस्यविदेव ब्रह्मज्ञानी नाम ॥

"https://sa.wikiquote.org/w/index.php?title=सच्च_त्यच्चाभवत्...&oldid=16418" इत्यस्माद् प्रतिप्राप्तम्