सतां हि दर्शनं पुण्यं...

सुभाषितम्

सतां हि दर्शनं पुण्यं तीर्थभूताश्च सज्जनाः।
कालेन फलते तीर्थम् सद्यः सज्जनसङ्गतिः॥




तात्पर्यम्

साधुजनानां दर्शनं सुकृतिकरं भवति। सज्जनाः पुण्यक्षेत्रसदृशाः भवन्ति। पुण्यक्षेत्रसन्दर्शनेन फलं चिरेण लभ्यते। साधुसमागमस्तु सपदि फलं ददाति।