सत्यं ब्रूयात् प्रियं ब्रूयात्...

सुभाषितम्

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ।
प्रियञ्च नानृतं ब्रूयादेष धर्मः सनातनः ॥




तात्पर्यम्

सत्यं वक्तव्यम्, किन्तु तत् भवेत् प्रियम् । सत्यमपि अहितं यदि स्यात् तर्हि तत् न वक्तव्यम् । श्रवणाय हितमिति असत्यं न कदापि वक्तव्यम् । अयम् अस्माकं सनातनधर्मस्य सारः ।