सत्यं माता पिता ज्ञानं...

सुभाषितम्

सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा ।
शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः ॥

चाणक्यनीतिः १२-११

satyaṃ mātā pitā jñānaṃ dharmo bhrātā dayā sakhā ।
śāntiḥ patnī kṣamā putraḥ ṣaḍete mama bāndhavāḥ ॥

पदच्छेदः

सत्यं, माता, पिता, ज्ञानं, धर्मः, भ्राता, दया, सखा, शान्तिः, पत्नी, क्षमा, पुत्रः, षट्, एते, मम, बान्धवाः ॥


तात्पर्यम्

सत्यं, ज्ञानं, धर्मः, दया, शान्तिः, क्षमा - षडेते क्रमेण मम माता, पिता, सहोदरः, मित्रं, पत्नी, पुत्रश्च ।


आङ्ग्लार्थः

Truth, knowledge, righteousness, mercy, peace, forgiveness - these six are my mother, father, brother, friend, wife and son in order.