सत्यकामो ह जाबालो जबालां मातरम् आमन्त्रयाञ्चक्रे, ब्रह्मचर्यं, भवति,
विवत्स्यामि किङ्गोत्रो नु अहमस्मि ? इति । - छान्दोग्योपनिषत् ४-४-१

सत्यकामजाबालः स्वमातरमागत्य, 'मातः अहं गुरुकुलवासी सन् ब्रह्मचर्यव्रतम् अनुष्ठातुम्
इच्छामि । मम गोत्रं किमिति कृपया ब्रूहि' इति मातरं पृष्टवान् ।

सत्यकामजाबालस्य गुरुभक्तेः सत्यव्रतस्य कथा इयम् । सत्यकामो नाम कश्चित् बालकः,
तस्य माता जबाला इति यस्मादयं जबालायाः पुत्रः तस्मात् जाबाल इत्येव प्रसिद्धः । सत्यकामजाबालनाम्ना
प्रसिद्धोऽयं बालकः । पुराकालीनस्य आर्षसंप्रदायस्य गुरुकुलवासस्य कथेयम् । सत्यकामजाबालः
स्वमातरम् एवं वदति –

'मातः, गुररुकुले अहं ब्रह्मचर्यव्रतम् अनुष्ठातुम् इच्छामि । तत्र गुरुकुले वसन् गुरुसेवां कुर्वाणः वेदाध्ययनं
कर्तुमिच्छामि । तस्मात् मम गोत्रं सूत्रं च मे ब्रूहि । मम पितृहीनत्वात् त्वमेव मह्यं मम पितुः नामधेयं गोत्रादि
कृपया ब्रूहि' इति । अनेन सत्यकाम जाबालस्य मातृभक्तिः ज्ञायते । अयं भारतीयसंप्रदायस्य महिमा ॥

"https://sa.wikiquote.org/w/index.php?title=सत्यकामो_ह_जाबालो...&oldid=16384" इत्यस्माद् प्रतिप्राप्तम्