सत्यमेव जयते नानृतम्...

सत्यमेव जयते नानृतम्
सत्येन पन्था विततो देवयानः ।
येनाक्रमन्ति ऋषयो ह्याप्तकामाः
यत्र तत् सत्यस्य परमं निधानम् ॥ - मुण्डकोपनिषत् ३-१-६

सत्यमेव जयति, न तु अनृतम् । सत्येनैव देवयानमार्गः विततः । आप्तकामाः ऋषयः अनेनैव
सत्यमार्गेण अमृतत्वं गच्छन्ति । अस्मिन्नेव सत्यमार्गे परमार्थतत्त्वं निहितमस्ति ॥

उपनिषत्सु सत्यस्य महत्त्वं बहुधा स्तूयते । सत्यमेव तपः, सत्यमेव ऋषिमुनीनां सम्पत्, संन्यासिनां
धनं नाम सत्यमेव । अध्यात्मसाधकानां तु सत्यात् परं साधनं नास्त्येव ॥

अस्यां मुण्डकोपनिषदि परं ब्रह्मापि सत्यशब्देनैव व्यपदिश्यते । सत्यतत्त्वस्य अवबोधे सत्यवचनमेव
साधनमपि भवति । सत्यस्यैव जयः, सत्येनैव प्रेयः , सत्येनैव श्रेयः, सत्येनैव च मुक्तिः । आप्तकामानां
ज्ञानिपुङ्गवानां महर्षीणां सम्पन्नाम सत्यमेव । सत्यवतामेव हि आत्मज्ञानं मुक्तिश्च लभ्यते ॥

"https://sa.wikiquote.org/w/index.php?title=सत्यमेव_जयते_नानृतम्...&oldid=16583" इत्यस्माद् प्रतिप्राप्तम्