सुभाषितम्

सदयं हृदयं यस्य भाषितं सत्यभूषितम् ।
कायः परहिते यस्य कलिस्तस्य करोति किम् ॥




तात्पर्यम्

यस्य मनः दयापूर्णं, यः सत्यभाषी, यः परोपकाराय एव स्वस्य शरीरम् उपयुङ्क्ते सः कदापि कलेः प्रभावेण स्पृष्टः न भवति ।

"https://sa.wikiquote.org/w/index.php?title=सदयं_हृदयं_यस्य...&oldid=15022" इत्यस्माद् प्रतिप्राप्तम्