सन्नियच्छति यो वेगम्...

सुभाषितम्

सन्नियच्छति यो वेगम् उत्थितं क्रोधहर्षयोः ।
स श्रियो भाजनं राजन् ! यश्चापत्सु न मुह्यति ।




तात्पर्यम्

क्रोधावसरे सन्तोषावसरे यः मनसः आवेगं निगृह्णीयात्, विपत्तौ यः स्थिरं तिष्ठेत् सः सर्वाः सम्पत्तीः प्राप्नोति ।

"https://sa.wikiquote.org/w/index.php?title=सन्नियच्छति_यो_वेगम्...&oldid=15024" इत्यस्माद् प्रतिप्राप्तम्