समर्पये जीवनम्...


समर्पये जीवनं सर्वथा
कायं वाचं धनम् ।
मातृभूमये पुण्यभूमये
समर्पये जीवनम् ॥

जननि लालितं त्वया पालितं
कौमारं कोमलं तव सेवार्थम् ।
गुणार्जनेऽहं समर्पये विमलम् ॥

त्वया पोषितं गुणगणसुभगं
प्रफुल्लमिव कमलं, तव पूजार्थम् ।
समर्पयेऽहं स्वयौवनं प्रबलम् ॥

नियतकर्मणा नीतिपथेन हि
धनमिह यदुपार्जितम् ।
गृहजनपोषणशेषं शेषं
जननि तदपि तेऽर्पितम् ॥


- डा श्री.भा.वर्णेकर


"https://sa.wikiquote.org/w/index.php?title=समर्पये_जीवनम्...&oldid=15437" इत्यस्माद् प्रतिप्राप्तम्