समानी प्रपा सह वो अन्नभागः ॥

समानी प्रपा सह वो अन्नभागः ॥ (अथर्ववेदः ३-३०-६) सम्पाद्यताम्

भवतां जलाशयाः अन्नभागाः च समानाः भवन्तु ।

जलम् आहारश्च जीवमात्राय तया विश्वचेतनशक्त्या दत्तानि अमूल्यानि उपायनानि । जलं सर्वेषाम् । सर्वेषां तद्विषये समानः अधिकारः विद्यते । तेनैव सह जलमूलानां संरक्षणस्य उत्तरदायित्वमपि अस्माकं विद्यते । आदौ वृष्टिजलस्य सम्पूर्णः सदुपयोगः कर्तव्यः । ततः गर्तकासारादिषु नदिकासु च तत् वृष्टिजलं सङ्गृह्य उपयोक्तव्यम् । आवश्यकतायां सत्यां कूपखननेन जलं प्राप्तव्यम् । कदापि अस्य जलस्य दुरुपयोगः न कर्तव्यः, जलमालिन्यं न करणीयम् ।
मानवानाम् आहारः भवन्ति सस्यानि । भूमिः, गोभरः, जलं, सूर्यशक्तिः, वर्धनसामर्थ्यम् इत्यादीनि सर्वाणि भगवतः एव । एतान् एकत्र संयोज्य परिसरस्नेहयुता स्वाभाविकी कृषिः मात्रम् अस्माभिः क्रियते । वयं निमित्तमात्रम् । मिलित्वा परिश्रमपूर्वकं कार्यं कृत्वा प्राप्तं फलं सर्वैः सह संविभज्य जीवनमेव मानवजीवनम् ।