समाने वृक्षे पुरुषो निमग्नः...
जीवात्मनः कीदृशी दुःस्थितिः !
समाने वृक्षे पुरुषो निमग्नः अनीशया शोचति मुह्यमानः । - मुण्डकोपनिषत् ३-१-२
समाने वृक्षे निमग्नः पुरुषः मुह्यमानः अनीशया शोचति ।
जीवस्य दुःखमयीं स्थितिम् अयं मन्त्रः अतिसुन्दरतया दर्शयति ।
जीवात्मपरमात्मानौ उभावपि अस्मिन्नेव समाने शरीरे वृक्षे वसतः ।
परमात्मा निर्लिप्तत्वात् असंसारी सन् साक्षिरूपेण वर्तते । जीवात्मा
तु अनीशया अविद्यया शोकसागरनिमग्नः ॥
‘अनीशा’ नाम दीनभावः । अविद्याकृता दैन्यस्थितिरेव हि ‘अनीशा’
नाम । तद्यथा – अहं रुग्णः अहं दुर्बलः, अहं वृद्धः, मम न कोऽप्यस्ति
सहायकः, अहम् एकाकी किं वा कुर्याम् ? मम ईदृशी स्थितिः आगता
खलु ? अहो ! न कोऽपि मां पश्यति – इत्यादिभावना एव अनीशा ।
देहात्मज्ञानमेव अनीशायाः हेतुः । ‘देहात्मभावम् आपन्नः’ इति शाङ्करं
भाष्यम् । ‘अविद्याकामकर्मफलरागादिगुरुभाराक्रान्तः’ इति च
श्रीशङ्करभगवत्पादा चार्याणां विवेचनम् !! अनीशया मुह्यमानः
जीवोऽयं सर्वदा शोकसागरनिमग्नः । इयमेव जीवस्य दुःस्थितिर्नाम !