सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ॥

सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ॥ (ऋग्वेदः १०-८५-४६) सम्पाद्यताम्

श्वशुर-श्वश्र्वोः सम्राज्ञी भवतु

महिलां द्वितीयस्तरस्य प्रजा इति, सन्तानप्रसूतियन्त्ररूपा इति, गृहस्य कर्मकरीमात्रम् इति, पुरुषस्य कामतृषापरिहर्त्रिमात्रम् इति च यः समाजः चिन्तयेत् तस्य हीनसमाजस्य कृते इदं स्पष्टं मार्गदर्शनम् । श्वशुरश्वश्र्वौ स्नुषां पुत्रीवत् पश्येताम् इत्येतत् समीचीनम् । तथैव स्नुषा अपि श्वशुरश्वश्र्वौ स्वीयौ मातापितरौ इव पश्येदेव । संसाररूपस्य रथस्य पतिः किञ्चन चक्रं चेत् पत्नी भवति अपरं चक्रम् । भावीसन्ततिं स्वस्य गर्भे धरन्त्यै महिलायै पतिः, तस्य परिवारस्य सर्वे अपि प्रीतिं सहकारं च दद्युः । स्नुषया स्वस्य गृहस्य कार्याणि सन्तोषेण करणीयानि इत्येतत् सत्यमेव । किन्तु अन्ये तया सह कर्मकर्या सह इव यदि व्यवहरेयुः तत् न समीचीनम् । कामतृप्तिः महिलापुरुषयोः समानतया लभ्येत । ततः प्रेमत्यागादयः गुणाः विकसेयुः । तदा महिलया प्राप्येत किञ्चन आदरणीयं स्थानम् ।