सुभाषितम्

सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥ पञ्चतन्त्रम् २/१५६




तात्पर्यम्

सामान्यतः जनाः चिन्तयन्ति यत् जगति दृश्यमानानि वस्तूनि एव लक्ष्यसिद्धौ प्रमुखं पात्रं वहन्ति इति । किन्तु तत् न सत्यम् इति एतैः उदाहरणैः ज्ञायते - सर्पाः वायोः सेवनमात्रेण जीवन्ति चेदपि ते न दुर्बलाः । शुष्कानि तृणानि खादन् गजः अरण्ये अत्यन्तं बलवान् भवति । कन्दमूलानि खादन्तः एव ऋषयः सर्वेषां मार्गदर्शकः सन्तः तिष्ठन्ति । अतः सन्तोषः एव पुरुषस्य परमं धनम् अस्ति न तु अन्यद् किमपि ।

"https://sa.wikiquote.org/w/index.php?title=सर्पाः_पिबन्ति_पवनं...&oldid=15027" इत्यस्माद् प्रतिप्राप्तम्