सुभाषितम्

सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥

मनुस्मृतिः ४.१५९

sarvaṃ paravaśaṃ duḥkhaṃ sarvamātmavaśaṃ sukham ।
etadvidyātsamāsena lakṣaṇaṃ sukhaduḥkhayoḥ ॥

पदच्छेदः

सर्वं, परवशं, दुःखं, सर्वम्, आत्मवशं, सुखम्, एतत्, विद्यात्, समासेन, लक्षणं, सुख-दुःखयोः।


तात्पर्यम्

पराधीनं समग्रमपि दुःखकारकम् । स्वाधीनं सर्वं भवति सुखकारकम् । इदमेव सुखदुःखयोः संक्षिप्तं लक्षणम् ।


आङ्ग्लार्थः

Everything that is in other’s control is painful. All that is in self control is happiness. This is the definition of happiness and pain in short.

"https://sa.wikiquote.org/w/index.php?title=सर्वं_परवशं_दुःखं...&oldid=17840" इत्यस्माद् प्रतिप्राप्तम्